आपदुद्धारक हनुमत्स्तोत्रम्

ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।

वामे करे वैरिभिदं वहन्तं
शैलं परे शृङ्खलहारिटङ्कम् ।
दधानमच्छच्छवियज्ञसूत्रं
भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ 1 ॥

संवीतकौपीन मुदञ्चिताङ्गुलिं
समुज्ज्वलन्मौञ्जिमथोपवीतिनम् ।
सकुण्डलं लम्बिशिखासमावृतं
तमाञ्जनेयं शरणं प्रपद्ये ॥ 2 ॥

आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पात नाशनाय नमो नमः ॥ 3 ॥

सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तु ते ॥ 4 ॥

आधिव्याधि महामारी ग्रहपीडापहारिणे ।
प्राणापहर्त्रेदैत्यानां रामप्राणात्मने नमः ॥ 5 ॥

संसारसागरावर्त कर्तव्यभ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ 6 ॥

वज्रदेहाय कालाग्निरुद्रायाऽमिततेजसे ।
ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ 7 ॥

रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् ।
शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम् ॥ 8 ॥

कारागृहे प्रयाणे वा सङ्ग्रामे शत्रुसङ्कटे ।
जले स्थले तथाऽऽकाशे वाहनेषु चतुष्पथे ॥ 9 ॥

गजसिंह महाव्याघ्र चोर भीषण कानने ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत् क्वचित् ॥ 10 ॥

सर्ववानरमुख्यानां प्राणभूतात्मने नमः ।
शरण्याय वरेण्याय वायुपुत्राय ते नमः ॥ 11 ॥

प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धिं जयं कीर्तिं प्राप्नुवन्ति न संशयः ॥ 12 ॥

जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः ।
राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम् ॥ 13 ॥

विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः ।
सर्वापद्भ्यो विमुच्येत नाऽत्र कार्या विचारणा ॥ 14 ॥

मन्त्रः ।

मर्कटेश महोत्साह सर्वशोकनिवारक ।
शत्रून् संहर मां रक्ष श्रियं दापय भो हरे ॥ 15

इति विभीषणकृतं सर्वापदुद्धारक श्रीहनुमत् स्तोत्रम् ॥