हनुमत्-पंचरत्नम्

वीताखिलविषयेच्छं जातानंदाश्रुपुलकमत्यच्छम्
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ 1 ॥

तरुणारुणमुखकमलं करुणारसपूरपूरितापांगम्
संजीवनमाशासे मंजुलमहिमानमंजनाभाग्यम् ॥ 2 ॥

शंबरवैरिशरातिगमंबुजदल विपुललोचनोदारम्
कंबुगलमनिलदिष्टं बिंबज्वलितोष्ठमेकमवलंबे ॥ 3 ॥

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4 ॥

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम्
दीनजनावनदीक्षं पवनतपः पाकपुंजमद्राक्षम् ॥ 5 ॥

एतत्पवनसुतस्य स्तोत्रं यः पठति पंचरत्नाख्यम्
चिरमिह निखिलान्भोगान्भुंक्त्वा श्रीरामभक्तिभाग्भवति ॥ 6 ॥