आञ्जनेय द्वादश नाम स्तोत्रम्

हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ 1 ॥ उदधिक्रमणश्चैव सीताशोकविनाशकः ।लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ 2 ॥ द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।तस्यमृत्यु भयं नास्ति सर्वत्र विजयी भवेत् ॥ 3 ॥

श्री हनुमान् बडबानल स्तोत्रम्

ॐ अस्य श्री हनुमद्बडबानल स्तोत्र महामन्त्रस्य श्रीरामचन्द्र ऋषिः, श्री बडबानल हनुमान् देवता, मम समस्त रोग प्रशमनार्थं आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं समस्त पापक्षयार्थं श्रीसीतारामचन्द्र प्रीत्यर्थं हनुमद्बडबानल स्तोत्र जपं करिष्ये । ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते प्रकट … Read more

हनुमान् माला मन्त्रम्

ॐ ह्रौं क्ष्रौं ग्लौं हुं ह्सौं ॐ नमो भगवते पञ्चवक्त्र हनूमते प्रकट पराक्रमाक्रान्त सकलदिङ्मण्डलाय, निजकीर्ति स्फूर्तिधावल्य वितानायमान जगत्त्रितयाय, अतुलबलैश्वर्य रुद्रावताराय, मैरावण मदवारण गर्व निर्वापणोत्कण्ठ कण्ठीरवाय, ब्रह्मास्त्रगर्व सर्वङ्कषाय, वज्रशरीराय, लङ्कालङ्कारहारिणे, तृणीकृतार्णवलङ्घनाय, अक्षशिक्षण विचक्षणाय, दशग्रीव गर्वपर्वतोत्पाटनाय, लक्ष्मण … Read more

आञ्जनेय भुजङ्ग प्रयात स्तोत्रम्

प्रसन्नाङ्गरागं प्रभाकाञ्चनाङ्गंजगद्भीतशौर्यं तुषाराद्रिधैर्यम् ।तृणीभूतहेतिं रणोद्यद्विभूतिंभजे वायुपुत्रं पवित्राप्तमित्रम् ॥ 1 ॥ भजे पावनं भावना नित्यवासंभजे बालभानु प्रभा चारुभासम् ।भजे चन्द्रिका कुन्द मन्दार हासंभजे सन्ततं रामभूपाल दासम् ॥ 2 ॥ भजे लक्ष्मणप्राणरक्षातिदक्षंभजे तोषितानेक गीर्वाणपक्षम् ।भजे घोर सङ्ग्राम … Read more

श्री हनुमत्कवचम्

अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः अनुष्टुप् छन्दः श्री हनुमान् देवता मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ उल्लङ्घ्य सिन्धोस्सलिलं सलीलंयश्शोकवह्निं जनकात्मजायाः ।आदाय तेनैव ददाह लङ्कांनमामि तं प्राञ्जलिराञ्जनेयम् ॥ … Read more

आपदुद्धारक हनुमत्स्तोत्रम्

ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः । ध्यानम् । वामे करे वैरिभिदं वहन्तंशैलं परे शृङ्खलहारिटङ्कम् ।दधानमच्छच्छवियज्ञसूत्रंभजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ 1 ॥ संवीतकौपीन … Read more

ञ्चमुख हनुमत्कवचम्

॥ पञ्चमुख हनुमत्कवचम् ॥ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः पञ्चमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बन्धः । श्री गरुड उवाच ।अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि … Read more

एकादशमुखि हनुमत्कवचम्

(रुद्रयामलतः) श्रीदेव्युवाच शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।कवचानि च सौराणि यानि चान्यानि तानि च ॥ 1॥श्रुतानि देवदेवेश त्वद्वक्त्रान्निःसृतानि च ।किञ्चिदन्यत्तु देवानां कवचं यदि कथ्यते ॥ 2॥ ईश्वर उवाच श‍ऋणु देवि प्रवक्ष्यामि सावधानावधारय ।हनुमत्कवचं पुण्यं महापातकनाशनम् … Read more

आञ्जनेय सहस्र नामम्

ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रृषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति कवचं मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः । ध्यानम्|| प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।सुग्रीवादियुतं ध्यायेत् … Read more

पवमान सूक्तम्

ओम् ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒कायासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।अ॒ग्निं-याँ गर्भ॑ओ दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षंया … Read more